(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.42. अध्यायः 042
Mahabharata - Udyoga Parva - Chapter Topics
सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-42-0x(3504)(33332)
ततो राजा धृतराष्ट्रो मनीषी
संपूज्य वाक्यं विदुरेरितं तत्।
सनत्सुजातं रहिते महात्मा
पप्रच्छ बुद्धिं परमां बुभूषन् ॥ 5-42-1(33333)
धृतराष्ट्र उवाच। 5-42-2x(3505)
सनत्सुजात यदिमं शृणोमि
न मृत्युरस्तीति तवोपदेशम्।
देवासुरा ह्याचरन्ब्रह्मचर्य-
ममृत्यवे तत्कतरन्नु सत्यम् ॥ 5-42-2(33334)
सनत्सुजात उवाच। 5-42-3x(3506)
अमृत्युं कर्मणा केचिन्मृत्युर्नास्तीति चापरे।
शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ 5-42-3(33335)
उभे सत्ये क्षत्रियाद्य प्रवृत्ते
मोहो मृत्युः संमतोऽयं कवीनाम्।
प्रमादं वै मृत्युमहं ब्रवीमि
तथाऽप्रमादममृतत्वं ब्रवीमि ॥ 5-42-4(33336)
प्रमादाद्वै असुराः पराभव-
न्नप्रमादाद्ब्रह्मभूताः सुराश्च।
नैव मृत्युर्व्याघ्र इवात्ति जन्तू-
न्न ह्यस्य रूपमुपलभ्यते हि ॥ 5-42-5(33337)
यमं त्वेके मृत्युमतोऽन्यमाहु-
रात्मावासममृतं ब्रह्मचर्यम्।
पितृलोके राज्यमनुशास्ति देवः
शिवः शिवानामशिवोऽशिवानाम् ॥ 5-42-6(33338)
अस्यादेशान्निःसरते नराणां
क्रोधः प्रमादो लोभरूपश्च मृत्युः।
अहं गतेनैव चरन्विमार्गा-
न्न चात्मनो योगमुपैति कश्चित् ॥ 5-42-7(33339)
ते मोहितास्तद्वशे वर्तमाना
इतः प्रेतास्तत्र पुनः पतन्ति।
ततस्तान्देवा अनुविप्लवन्ते
अतो मृत्युर्मरणादभ्युपैति ॥ 5-42-8(33340)
कर्मोदये कर्मफलानुरागा-
स्तत्रानु ते यान्ति न तरन्ति मृत्युम् ।
सदर्थयोगानवगमात्समन्ता-
त्प्रवर्तते भोगभोगेन देही ॥ 5-42-9(33341)
तद्वै महामोहनमिन्द्रियाणां
मिथ्यार्थयोगस्य गतिर्हि नित्या।
मिथ्यार्थयोगाभिहतान्तरात्मा
स्मरन्नुपास्ते विषयान्समन्तात् ॥ 5-42-10(33342)
अभिध्या वै प्रथमं हन्ति लोकान्
कामक्रोधावनुगृह्याशु पश्चात्।
एते बालान्मृत्यवे प्रापयन्ति
धीरास्तु धैर्येण तरन्ति मृत्युम् ॥ 5-42-11(33343)
सोऽभिध्यायन्नुत्पतिष्णन्निहन्या-
दनादरेणाप्रतिबुध्यमानः।
नैनं मृत्युर्मृत्युरिवात्ति भूत्वा
एवं विद्वान्यो विनिहन्ति कामान् ॥ 5-42-12(33344)
कामानुसारी पुरुषः कामाननु विनश्यति।
कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ॥ 5-42-13(33345)
तमोप्रकाशो भूतानां नरकोऽयं प्रदृश्यते।
मुह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥ 5-42-14(33346)
अमूढवृत्तेः पुरुषस्येह कुर्या-
त्किं वै मृत्युस्तार्ण इवास्य व्याघ्रः ।
अमन्यमानः क्षत्रिय किञ्चिदन्य-
न्नाधीयते तार्ण इवास्य सर्पः ॥ 5-42-15(33347)
क्रोधाल्लोभान्मोहभयान्तरात्मा
स वै मृत्युस्त्वच्छरिरे य एषः।
एवं मृत्युं जायमानं विदित्वा
ज्ञाने तिष्ठन्न बिभेतीह मृत्योः।
विनश्यते विषये तस्य मृत्यु-
र्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥ 5-42-16(33348)
धृतराष्ट्र उवाच। 5-42-17x(3507)
यानेवाहुरिज्यया साधुलोकान्
द्विजातीनां पुण्यतमान्सनातनात्।
तेषां परार्थं कथयन्तीह वेदा
एतद्विद्वान्नैति कथं नु कर्म ॥ 5-42-17(33349)
सनत्सुजात उवाच। 5-42-18x(3508)
एवं ह्यविद्वानुपयाति तत्र
तत्रार्थजातं च वदन्ति वेदाः।
सवेह आयाति परं परात्मा
प्रयाति मार्गेण निहत्य मार्गान् ॥ 5-42-18(33350)
धृतराष्ट्र उवाच। 5-42-19x(3509)
कोऽसौ नियुङ्क्ते तमजं पुराणं
स चेदिदं सर्वमनुक्रमेण।
किं वास्य कार्यमथवा सुखं च
तन्मे विद्वन्ब्रूहि सर्वं यथावत् ॥ 5-42-19(33351)
सनत्सुजात उवाच। 5-42-20x(3510)
दोषो महानत्र विभेदयोगे
ह्यनादियोगेन भवन्ति नित्याः।
तथास्य नाधिक्यमपैति किञ्चि-
दनादियोगेन भवन्ति पुंसः ॥ 5-42-20(33352)
य एतद्वा भगवान्स नित्यो
विकारयोगेन करोति विश्वम्।
तथाच तच्छक्तिरिति स्म मन्यते।
तथार्थयोगेन भवन्ति वेदाः ॥ 5-42-21(33353)
धृतराष्ट्र उवाच। 5-42-22x(3511)
यस्माद्धर्मान्नाचरन्तीह केचि-
त्तथा धर्मान्केचिदिहाचरन्ति।
धर्मः पापेन प्रतिहन्यते स्वि-
दुताहो धर्मः प्रतिहन्ति पापम् ॥ 5-42-22(33354)
सनत्सुजात उवाच। 5-42-23x(3512)
तस्मिन्स्थितौ वाप्युभयं हि नित्यं
ज्ञानेन विद्वान्प्रतिहन्ति सिद्धम्।
तथान्यथा पुण्यमुपैति देही
तथागतं पापमुपैति सिद्धम् ॥ 5-42-23(33355)
गत्वोभयं कर्मणा युज्यते स्थिरं
शुभस्य पापस्य स चापि कर्मणा।
धर्मेण पापं प्रणुदतीह विद्वान्
धर्मो बलीयानिति तत्र विद्धिः ॥ 5-42-24(33356)
धृतराष्ट्र उवाच। 5-42-25x(3513)
यानिहाहुः स्वस्य धर्मस्य लोका-
न्द्विजातीनां पुण्यकृतां सनातनान्।
तेषां क्रमान्कथय ततोऽपि चान्या-
न्नैतद्विद्वन्वेत्तुमिच्छामि कर्म ॥ 5-42-25(33357)
सनत्सुजात उवाच। 5-42-26x(3514)
येषां व्रतेऽथ विस्पर्धा बले बलवतामिव।
ते ब्राह्मणा इतः प्रेत्य स्वर्गे यान्ति प्रकाशताम् ॥ 5-42-26(33358)
येषां धर्मे च विस्पर्धा तेषां जज्ज्ञानसाधनम्।
ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम् ॥ 5-42-27(33359)
तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः।
नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम् ॥ 5-42-28(33360)
यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोदकम्।
अन्नं पानं ब्राह्मणस्य तञ्जीवोन्नानुसंज्वरेत् ॥ 5-42-29(33361)
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम्।
अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥ 5-42-30(33362)
यो वा कथयमानस्य ह्यात्मानं नानुसंज्वरेत्।
ब्रह्मस्वं नोपभुञ्जीत तदन्नं संमतं सताम्।
कुशवल्कलचेलाद्यं ब्रह्मस्वं योगिनो विदुः ॥ 5-42-31(33363)
यथा खं वान्तमश्नाति श्वा वै नित्यमभूतये ।
एवं ते वान्तमश्नन्ति स्ववीर्यस्योपसेवनात् ॥ 5-42-32(33364)
नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः।
ज्ञातीनां तु वसन्मध्ये नैवं विन्देत किञ्चन ॥ 5-42-33(33365)
कोह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति।
निर्लिङ्गमचलं शुद्धं सर्वद्वन्द्वविवर्जितम् ॥ 5-42-34(33366)
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ 5-42-35(33367)
अश्रान्तः स्यादनादाता संमतो निरुपद्रवः।
शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥ 5-42-36(33368)
अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ ।
ते दुर्धर्षा दुष्प्रकम्प्यास्तान्विद्याद्ब्रह्मणस्तनुम् ॥ 5-42-37(33369)
सर्वान्खिष्टकृतो देवान्विद्याद्य इह कश्चन।
न स मानो ब्राह्मणस्य तस्मिन्प्रयतते स्वयम् ॥ 5-42-38(33370)
यमप्रयतमानं तु मानयन्ति समाहिताः ।
न मान्यमानो मन्येत नावमानेऽतिसंज्वरेत् ॥ 5-42-39(33371)
लोकः स्वभाववृत्तिर्हि निमेषोन्मषवत्सदा।
विद्वांसो मानयन्तीह इति मन्येत मानितः ॥ 5-42-40(33372)
अधर्मनिपुणा मुढा लोके मायाविशारदाः ।
न मान्यं मानयिष्यन्ति एवं मन्येत मानितः ॥ 5-42-41(33373)
न वै मानं च मौनं च सहितौ वसतः सदा।
अयं हि लोको मानस्य असौ मौनस्य तद्विदुः ॥ 5-42-42(33374)
श्रीर्हि मानार्थसंवासा सा चापि परिपन्थिनी ।
ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥ 5-42-43(33375)
द्वाराणि तस्येह वदन्ति सन्तो
बहुप्रकाराणि दुराधराणि।
सत्यार्जवे ह्रीर्दमशौचविद्या
षण्मानमोहप्रतिबन्धनानि ॥ ॥ 5-42-44(33376)

इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि द्विचत्वारिंशोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.